Sanskrit shlok Arth

Monday, June 14, 2021

शकुन्तला चरितम्

 



शकुन्तला चरितम्

शकुन्तला कालिदासस्य सर्वस्व भूतस्य अभिज्ञानशाकुन्तलस्य प्रधान नायिका अस्ति| अभिज्ञानशाकुन्तले शकुन्तला बाल्यतारुपवती कन्येव चित्रिता अस्ति | यद्यपि नाट्यशास्त्रियेषु ग्रन्थेषु नायिकागुणानां प्रतिपादनं नैव कृतमस्ति तथापि नायकगुणा एव प्रायो नायिका स्वपि द्रष्टव्या इति नेतृसामान्यगुणा:- मधुरता (प्रियदर्शनता) त्याग:, दक्षता, प्रियम्वदता, रूढवंशता, स्थिरता, युवावस्था, इत्यादय: सर्वे गुणा: परिगणनीया: | शकुन्तला अलौकिकसौन्दर्य शालिन्य अस्ति | तस्या: शारीरिकं सौन्दर्य दर्शमेव राजा तत्प्रेमपाशपतितो जात: | शकुन्तला येन नदृष्टा तस्य चक्षुरेव निष्फ़लं इति राज्ञो निर्णय: |

 अभिज्ञानशाकुन्तलस्य नायिका शकुन्तला प्रकृति पुत्र्यस्ति | अतएव प्रकृत्या सह तस्या: तादात्म्यम् अस्ति| सा प्रकृतिं स्वात्मन: पृथक् न मन्यते | लता: तस्या: भगिन्य: सन्ति - आश्रमवृक्षेषु तस्याः तथा प्रेम अस्ति यथा सा तेभ्यः पयों दत्त्वैव जलं पिबति तथा प्रियमण्डनापि - स्नेहेन पल्लवं नादत्ते ।

पातुं न प्रथमं व्यवस्यति जलं यूष्मास्वसिक्तेषु या,

नादत्ते प्रियमण्डनापि भवतां स्नेहेन, या पल्लवम् ॥

तस्याः प्रकृत्या सह घनिष्ठतर: सम्बन्धोऽस्ति |शकुन्तला सुशील स्वभाव अस्ति । राजानं दृष्ट्वा तन्मनसि कामविकारो जायते, किन्तु स्वकीयां काम - वेदनामन्तत सा गोपायति, संख्यावपि न कथयति । शकुन्तला लज्जाशीला अस्ति । प्रथम अड्के यदा राजा तस्याः रुपं प्रशंसति तदा सा सलज्जमधोमुखी तिष्ठति यदा प्रियम्वदा तस्याः विवाह परिचर्या करोति तदा सा ततोऽन्यद् गन्तुम् इच्छति ।

शकुन्तला सरलस्वभावा नायिकाऽस्ति । यदा सख्यौ तस्याः परिहासं कुरुतः। शकुन्तला पति परायणा अस्ति । तस्याः मनः सर्वदा पति पार्श्वे एव भ्रमति | गान्धर्व विवाहितायां तस्यां गते च राजानि शकुन्तला निरन्तरं पतिगतमेव चिन्तयति, यत् परिणामेन सा दुर्वाससः शाप भाजनं जात । राज्ञा दुष्यन्तेन निराहता सा कण्वशिष्ययोः अनुगमनं करोति|

शकुन्तला पुण्यजनान् प्रति सम अधिकम् आदर वत्यस्ति | सा स्वतन्त्रा न अस्ति, गुरुजन परवश अस्तीति सा सम्यक जानाति । शकुन्तलाया: चरित्र नहि केवल संस्कृत साहित्ये एव, अपितु विश्वसाहित्य आदर्शपूर्णम् अस्ति । अस्या चरित्रं पाश्चात्यैः अपि विद्वद्भि: मुक्तकण्ठेन प्रशंस्यत इति ।

No comments:

Post a Comment

संस्कृत श्लोक

धनतेरस की शुभकामनाएं

  ॐ नमो भगवते महासुदर्शनाय वासुदेवाय धन्वंतराये:। अमृतकलश हस्ताय सर्व भयविनाशाय सर्व रोगनिवारणाय।। आप सभी को धनतेरस पर्व की हार्दिक शुभकामना...