अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्यां ।
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच । । २.१ । ।
सङ्केत:- अथ............................................................................................................... धेनुमृषेर्मुमोच ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम्
नाम्ना: ग्रन्थात् उद्धृतं वर्तते। अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास:
वर्तते। अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी
गौसेवाया: वर्णनं वर्तते।
अन्वय: - अथ यशोधन: प्रजानाम् अधिप: प्रभाते जायाप्रतिग्राहितगन्धमाल्यां पीतप्रतिबद्धवत्सां ऋषे: धेनुं वनाय मुमोचे।
शब्दार्थ:- अथ- निशानयनानान्तरम्, यशोधन: - किर्तिवित्त:,
प्रजानाम् – जनानाम्, अधिप: -स्वामी, राजादिलीप:, प्रभाते – प्रातःकाले, जायाप्रतिग्राहितगन्धमाल्यां – सुदक्षिणास्वीकारितस्रक्चन्दनाम्, पीतप्रतिबद्धवत्सां – दुग्धपानानन्तरनिबध्दबालवत्सकाम्,
ऋषे: - महर्षे:, स्वकुलगुरो:, वसिष्ठस्य, धेनुं – गां नन्दिनीम्, वनाय- वनं
गन्तुम्, मुमोच- मुक्तवान् ।
अनुवाद:- रात्रि के बीत जाने पर यश के धनी, प्रजापालक राजा
दिलीप ने प्रात:काल सुदक्षिणा द्वारा दी हुई गन्ध-माला को ग्रहण करने वाली, दुध
पीकर बन्धे हुए बछडे वाली महर्षि वसिष्ठ की नन्दिनी गौ को वन में चराने के लिए खोल
दिया ।
तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया ।
मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् । । २.२ । ।
सङ्केत:- तस्याः............................................................................................................... स्मृतिरन्वगच्छत् ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम्
नाम्ना: ग्रन्थात् उद्धृतं वर्तते। अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास:
वर्तते। अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी
गौसेवाया: वर्णनं वर्तते।
अन्वय: - अपान्सुलानां धुरि कीर्तनीया मनुष्येश्वरधर्मपत्नी तस्याः खुरन्यासपवित्रपांसुम् मार्गं स्मृति:
श्रुते: अर्थम् इव अन्वगच्छत् ।
व्याख्या:- अपान्सुलानां – पतिव्रतानां, धुरि – अग्रे,
कीर्तनीया – गणनीया, मनुष्येश्वरधर्मपत्नी – दिलिपराजमहिषी सुदक्षिणा, खुरन्यासपवित्रपांसुम् – शफ़विन्यासपवित्ररेणुम्, तस्या: - वसिष्ठधेनो:,
मार्गं – पन्थानम्, स्मृति: - धर्मशास्त्रम्, श्रुते: - वेदस्य, अर्थम् –
अभिधेयम्, इव – यथा, अन्वगच्छत् – अनुसार ।
अनुवाद: - पतिव्रताओं में अग्रगण्य राजा दिलीप की धर्मपत्नी
सुदक्षिणा उस नन्दिनी के खुरों के रखने से पवित्र धूलि वाले मार्ग में वेद के अर्थ
के पीछे स्मृति के समान चली ।
निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः ।
पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम् । । २.३ । ।
सङ्केत:- निवर्त्य............................................................................................................. गोरूपधरामिवोर्वीम् ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम्
नाम्ना: ग्रन्थात् उद्धृतं वर्तते। अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास:
वर्तते । अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी
गौसेवाया: वर्णनं वर्तते।
अन्वय: - दयालु: यशोभि: सुरभि: राजा तां दयितां निवर्त्यं पयोधरीभूतचतुःसमुद्रां सौरभेयीं गोरूपधराम् उर्वीम् इव जुगोप ।
व्याख्या:- दयालु: - कारुणिक:, यशोभि: - कीर्तिभि:, सुरभि:
- मनोज्ञ:, राजा – नृपो दिलीप:, तां – पूर्वोक्ताम्, दयितां – स्वप्रियां
सुदक्षिणाम्, निवर्त्यं – परावर्त्यं, पयोधरीभूतचतुःसमुद्रां – विपुलदुग्धराशितिरस्कृतचतु:सागराम्,
सौरभेयीं – सुरभितनयां नन्दिनीम्, गोरूपधराम् – धेनुरूपधारिणीम्,
उर्वीम् – पृथ्वीम्, इव – यथा, जुगोप - ररक्ष ।
अनुवाद: - दयालु एवं कीर्तियों से सुशोभित राजा दिलीप ने प्रियपत्नी
सुदक्षिणा को लौटाकर अपने दुध से चारों समुन्द्रो को तिरस्कृत करने वाली सुरभि की
पुत्री पृथ्वी नन्दिनी की चारों समुन्द्रो को चार स्तनों के रूप में धारण करने
वाली गौरुपी पृथ्वी के समान रक्षा की ।
व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः ।
न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः । । २.४ । ।
सङ्केत:- व्रताय............................................................................................................... मनोः प्रसूतिः ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम्
नाम्ना: ग्रन्थात् उद्धृतं वर्तते। अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास:
वर्तते। अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी
गौसेवाया: वर्णनं वर्तते।
अन्वय: - व्रताय धेनो: अनुचरेण तेन शेषः अपि अनुयायिवर्ग:
न्यषेधि, तस्य शरीररक्षा च अन्यत: न । हि मनो: प्रसूति: स्वविर्यगुप्ता (भवति) ।
व्याख्या:- व्रताय – पुत्रार्थं नियमाय, धेनो: -
नन्दिन्या:, अनुचरेण – सेवकेन, तेन – राजा दिलीपेन, शेषः अपि –
सुदक्षिणातिरिक्तोsपि, अनुयायिवर्ग: - अनुचरवृन्दम्, न्यषेधि – न्यवर्ति, तस्य –
राज्ञो दिलीपस्य, शरीररक्षा – देहपालनम्, च – तु, अन्यत: - अन्यस्मात् भृत्यादित:,
न – नैव भवति । हि – यस्मात्, मनो: -
वैवस्वतनामकमनो:, प्रसूति: - सन्तति:, सूर्यवंशराजान इति यावत् । स्वविर्यगुप्ता –
निजपराक्रमरक्षिता, भवतीति शेषः ।
अनुवाद: - व्रत ले लिए नन्दिनी के पीछे चलने वाले राजा
दिलीप ने शेष नौकरों को भी लौटा दिया । उनके शरीर की रक्षा के लिए दूसरों की
आवश्यकता न थी, क्योंकि मनु की सन्तान अपने पराक्रम से रक्षित होती है ।
आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैर्दंशनिवारणैश्च ।
अव्याहतैस्स्वैरगतैस्स तस्याः सम्राट् समाराधनतत्परोऽभूत् । । २.५ । ।
सङ्केत:- आस्वादवद्भिः...................................................................................................समाराधनतत्परोऽभूत् ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम्
नाम्ना: ग्रन्थात् उद्धृतं वर्तते। अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास:
वर्तते। अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी
गौसेवाया: वर्णनं वर्तते।
अन्वय: - सम्राट् स आस्वादवद्भिः तृणानां कवलै: कण्डूयनै: र्दंशनिवारणै: अव्याहतै: स्वैरगतै: च तस्या: समाराधनतत्पर: अभूत् ।
व्याख्या: - सम्राट् – मण्डलेश्वर:, स – राजा दिलीप:, आस्वादवद्भिः – रसवद्भि, स्वादयुक्तै:, तृणानां –
घासानाम्, कवलै: - ग्रासै:, कण्डूयनै: - गालखर्जनै:, र्दंशानां – वनमक्षिकाणाम्, निवारणै: - दूरीकरणै:, अव्याहतै: - अनिरुद्धै:, स्वैरगतै: - स्वच्छन्दगमनै: च,
तस्या: - नन्दिन्या:, समाराधनतत्पर: - शुश्रूषासक्त:, अभूत् - बभूव ।
अनुवाद: - वे चक्रवर्ती राजा दिलीप स्वादिष्ट कोमल घास के
कौर बना कर खिलाने, शरीर खुजलाने, मक्खी – मच्छरों के उड़ाने से और बिना रुकावट
स्वच्छन्द चलने वाली उस नन्दिनी की सेवा में संलग्न थे।
स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः ।
जलाभिलाषी जलमादधानां छायेव तां भूपतिरन्वगच्छत् । । २.६ । ।
सङ्केत:- स्थितः............................................................................................................... भूपतिरन्वगच्छत् ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम्
नाम्ना: ग्रन्थात् उद्धृतं वर्तते । अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास:
वर्तते । अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी
गौसेवाया: वर्णनं वर्तते ।
अन्वय: - भूपति: तां स्थितां स्थित: प्रयाताम् उच्चलित:
निषेदुषीम् आसनबन्धधीर: जलम् आददानां जलाभिलाषी छाया इव ताम् अन्वगच्छत् ।
व्याख्या: - भूपति: - पृथिवीपति: राजा दिलीप:, तां –
नन्दिनीम्, स्थितां – अवस्थिताम् सतीम्, स्थित: - तिष्ठन् सन्, प्रयाताम् –
प्रचलिताम्, उच्चलित: - प्रचलन् गच्छन् सन्, निषेदुषीं – उपविष्टाम्, आसनबन्धधीर:
- स्थिरतयोपविष्ट: सन्, जलम् – पानीयम्, आददानां – पिबन्तीम्, जलाभिलाषी – जलं पिबन् सन्
(तां वसिष्ठधेनुम्), छाया – प्रतिबिम्बम्, इव – यथा, अन्वगच्छत् – अनुजगाम ।
अनुवाद: - राजा दिलीप उस नन्दिनी के ठहरने पर ठहरते है,
चलने पर चलते है, बैठने पर बैठते है, पानी पीने पर पानी पीते है, इस प्रकार छाया
के समान उसके पीछे- पीछे चलते है ।
लताप्रतानोद्ग्रथितैः स केशैरधिज्यधन्वा विचचार दावं ।
रक्षापदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् । । २.८ । ।
सङ्केत:- लताप्रतानोद्ग्रथितैः.................................................................................................. दुष्टसत्त्वान् ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम्
नाम्ना: ग्रन्थात् उद्धृतं वर्तते। अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास:
वर्तते। अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी
गौसेवाया: वर्णनं वर्तते।
अन्वय:- लताप्रतानोद्ग्रथितैः केशै: अधिज्यधन्वा स मुनिहोमधेनो: रक्षापदेशात् वन्यात्
दुष्टसत्त्वान् विनेष्यन् इव दावं विचचार ।
व्याख्या: - लताप्रतानोद्ग्रथितैः – वल्लीकुटिलतन्तुभिरुन्नमय्य बद्धै:, केशै: - कचै:, (उपलक्षित: - युक्त: शोभितो वा) अधिज्यधन्वा – आरोपितकार्मुक:, सज्जधनुष्मान्, मुनिहोमधेनो: - वसिष्ठहवनार्थधेनो: नन्दिन्या:,
रक्षापदेशात् – रक्षणव्याजात्, वन्यात् – आरण्यकान्,
दुष्टसत्त्वान् – सिंहव्याघ्रादिक्रुरजन्तून्, विनेष्यन्निव – उपदेश्यन्निव, दावं –
वनं, विचचार - परिबभ्राम।
अनुवाद: - लतातन्तुओं से गूँथे हुए केश वाले, प्रत्यक्ष चढे
हुए धनुष को धारण किये वे राजा दिलीप वसिष्ठ ऋषि की धेनु की रक्षा के बहाने जंगली
दुष्ट जीवों को मानों शिक्षा देते हुए वन में विचरने लगे ।
विसृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य ।
उदीरयामासुरिवोन्मदानां आलोकशब्दं वयसां विरावैः । । २.९ । ।
सङ्केत:- विसृष्टपार्श्वानुचरस्य....................................................................................................... वयसां विरावैः ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम्
नाम्ना: ग्रन्थात् उद्धृतं वर्तते। अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास:
वर्तते। अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी
गौसेवाया: वर्णनं वर्तते।
अन्वयः – विसृष्टपार्श्वानुचरस्य पाशभृता समस्य तस्य पार्श्वद्रुमाः उन्मदानां वयसां विरावैः आलोकशब्दम् उदीरयामासु: इव ।
व्याख्या: - विसृष्टपार्श्वानुचरस्य – निवर्तितासन्नसेवकवर्गस्य, पाशभृता – वरुणेन, समस्य – तुल्यस्य, तस्य – राज्ञो दिलीपस्य, पार्श्वद्रुमाः – निकटवर्तिन: वृक्षा:, उन्मदानां – प्रहृष्टानाम्,मत्तानाम्, वयसां – पक्षिणाम्, विरावैः – कूजितै:, आलोकशब्दम् – जयशब्दम्, उदीरयामासु: - उच्चारयामासु:, इव -
नूनम् ।
अनुवाद: - पश्र्ववर्ती सेवकों को लौटा देने वाले वरुण के
समान उस राजा के अलग- अलग वृक्षों ने उन्मत्त पक्षियों के कलवर से मानों जय- जयकार
किया ।
स कीचकैर्मारुतपूर्णरन्ध्रैः कूजद्भिरापादितवंशकृत्यम् ।
शुश्राव कुञ्जेषु यशस्स्वमुच्चैरुद्गीयमानं वनदेवताभिः । । २.१२ । ।
सङ्केत:- स कीचकैर्मारुतपूर्णरन्ध्रैः................................................................................................. वनदेवताभिः ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम्
नाम्ना: ग्रन्थात् उद्धृतं वर्तते। अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास:
वर्तते। अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी
गौसेवाया: वर्णनं वर्तते।
अन्वय: - स मारुतपूर्णरन्ध्रैः कूजद्भि: कीचकै: आपादितवंशकृत्यं कुञ्जेषु वनदेवताभिः उच्चै: उद्गीयमानं स्वं यश: शुश्राव ।
व्याख्या: - स: - राजा दिलीप:, मारुतपूर्णरन्ध्रैः – वायुपूर्णच्छिद्रै:, अत एव कूजद्भि: - स्वनद्भि:, कीचकै: - वेणुविशेषै:, आपादितवंशकृत्यं –
सम्पादितमुरलीवाद्यकार्यं यथा स्यात्तथा, कुञ्जेषु – लतागृहेषु, वनदेवताभिः – काननदेवीभि:, उच्चै: - तारस्वरम्, उद्गीयमानं – प्रस्तूयमानम्, स्वं – आत्मीयम्,
यश: - कीर्तिम्, शुश्राव - श्रुतवान् ।
अनुवाद: - उस राजा दिलीप ने छिद्रों में भरी हुई हवा से
गूँजने वाले बाँसों के कुञ्जों से वनदेवियों द्वारा ऊँचे स्वर से गाये जाते हुए
अपने यश को सुना ।
सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुं ।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः । । २.१५ । ।
सङ्केत:- सञ्चारपूतानि............................................................................................................... मुनेश्च धेनुः ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम्
नाम्ना: ग्रन्थात् उद्धृतं वर्तते। अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास:
वर्तते। अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी
गौसेवाया: वर्णनं वर्तते।
अन्वय: - पल्लवरागाताम्रा पतङ्गस्य प्रभा मुने: धेनुश्च दिगन्तराणि सञ्चारपूतानि कृत्वा दिनान्ते निलयाय गन्तुं प्रचक्रमे ।
व्याख्या: - पल्लवरागाताम्रा – किसलयरक्तवर्णा, पतङ्गस्य – सूर्यस्य, प्रभा – कान्ति:, मुने: - वसिष्ठ, धेनुश्च – नन्दिनी च, दिगन्तराणि –
दिशामवकाशान्, सञ्चारपूतानि – परिभ्रमणपवित्राणि च, कृत्वा – विधाय, दिनान्ते – सायङ्काले, निलयाय – आश्रमाय, अस्ताचलाय च, गन्तुं – यातुम्, प्रचक्रमे - प्रवृत्ता ।
अनुवाद: - नवीन पल्लव की लालिमा के
समान सूर्य की प्रभा और वसिष्ठ की धेनु नंदिनी दिशाओं को अपने परिभ्रमण से पवित्र
करके सायंकाल निलय (आश्रम या अस्ताचल) के लिए लौटी ।
इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः ।
सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य । । २.२५ । ।
सङ्केत:- इत्थं व्रतं............................................................................................................... दीनोद्धरणोचितस्य ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम्
नाम्ना: ग्रन्थात् उद्धृतं वर्तते। अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास:
वर्तते। अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी
गौसेवाया: वर्णनं वर्तते।
अन्वय: - इत्थं प्रजार्थं महिष्या समं व्रतं धारयतः महनीयकीर्तेः दीनोद्धरणोचितस्य तस्य त्रिगुणानि सप्त दिनानि व्यतीयु: ।
व्याख्या: - इत्थम्- अनेन प्रकारेण, प्रजार्थं – सन्ततिप्राप्तये, महिष्या – स्वभार्यया राज्ञ्या सुदक्षिणया, समं – सार्द्धम्, व्रतं – नियमम्, धारयतः – दधत:, महनीयकीर्तेः – वन्दनीययशस:, दीनोद्धरणोचितस्य – निराश्रयसंरक्षणप्रसक्तस्य, तस्य –
राज्ञो दिलीपस्य, त्रिगुणानि सप्त – त्रिरावृतानि
सप्त, दिनानि – अहानि, व्यतीयु: - व्यतीतानि ।
अनुवाद:- इस प्रकार पुत्रप्राप्ति के लिए अपनी धर्मपत्नी सुदक्षिणा के साथ व्रत
को धारण करते हुए यशस्वी एवं दीनों के संरक्षक राजा दिलीप के त्रिगुण (7*3= 21) दिन बीत गये ।
स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श ।
अधित्यकायां इव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् । । २.२९ । ।
सङ्केत:- स पाटलायां.............................................................................................................. प्रफुल्लम् ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम्
नाम्ना: ग्रन्थात् उद्धृतं वर्तते। अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास:
वर्तते। अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी
गौसेवाया: वर्णनं वर्तते।
अन्वयः – धनुर्धरः स नृप: पाटलायां गवि तस्थिवांसं केसरिणं सानुमतः धातुमय्याम् अधित्यकायां प्रफुल्लं लोध्रद्रुमम् इव ददर्श ।
व्याख्या: - धनुर्धरः – धनुष्क:, स: नृप: - राजा दिलीप:, पाटलायां आत्तवर्णायाम्, गवि – धेनौ, तस्थिवांसं – स्थितम्, केसरिणं – सिंहम्, सानुमतः – पर्वतस्य, धातुमय्याम् – गैरिकादिप्रचुरायाम्, अधित्यकायां – अद्रेरूर्ध्वभूमौ, प्रफुल्लं – विकसितम्, लोध्रद्रुमम् – लोध्रपादपम्, इव –
यथा, ददर्श - अवलोकयामास ।
अनुवाद- धनुर्धारी राजा दिलीप ने लाल रंग की नंदिनी पर बैठे हुए शेर को पार्वतीय गेरुधातु
वाली ऊपर की भूमि पर विकसित लोध्र के वृक्ष के समान देखा ।
अलं महीपाल तव श्रमेण प्रयुक्तम् अप्यस्त्रम् इतो वृथा स्यात् ।
न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्च्छति मारुतस्य । । २.३४ । ।
सङ्केत:- अलं............................................................................................................... मारुतस्य ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम्
नाम्ना: ग्रन्थात् उद्धृतं वर्तते। अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास:
वर्तते। अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी
गौसेवाया: वर्णनं वर्तते।
अन्वय: - हे महीपाल! तव श्रमेण अलम्। इत: प्रयुक्तम् अपि
अस्त्रं वृथा स्यात्। पादपोन्मूलनशक्ति: मारुतस्य रंहः शिलोच्चये न मूर्च्छति।
संस्कृत व्याख्या-
हे महीपाल! – हे भूपते!, तव- भवत:, श्रमेण- शराकर्षण प्रयासेन, अलं- न
प्रयोजनम्, इत:- मयि सिंहे, प्रयुक्तं- निक्षिप्तम् अपि, अस्त्रं- वाणादिकम्,
वृथा- व्यर्थम्, स्यात्- भवेत्, पादपोन्मूलनशक्ति:- वृक्षोत्पाटन समर्थनम्, मारुतस्य- वायो:, रंह:-
वेग:, शिलोच्चयं- पर्वते, न मूर्च्छति- न प्रसरति।
अनुवाद:- हे राजन्! परिश्रम करना बेकार है, मेरे ऊपर चलाया
हुआ आपका बाण विफ़ल हो जायेगा, क्योंकि वृक्ष को उखाडने की शक्ति रखने वाला वायु का
वेग पहाड के सामने निष्फ़ल हो जाता है।
अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन ।
यो हेमकुम्भस्तननिः सृतानां स्कन्दस्य मातुः पयसां रसज्ञः । । २.३६ । ।
सङ्केत:- अमुं............................................................................................................... पयसां रसज्ञः ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम्
नाम्ना: ग्रन्थात् उद्धृतं वर्तते। अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास:
वर्तते। अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी
गौसेवाया: वर्णनं वर्तते।
अन्वय: - पुरः अमुं पश्यसि (किम्?) असौ वृषभध्वजेन पुत्री कृत: य: स्कन्दस्य मातुः हेमकुम्भ स्तनानि: सृतानां पयसां रसज्ञः (अस्ति)।
संस्कृत व्याख्या:- पुर:- अग्रत:, अमुं- इमम्, देवदारुं-
सुरद्रुमम्, पश्यसि- अवलोकयसि, य:- देवदारु:, स्कन्दस्य- कार्तिकेयस्य, मातु:-
जनन्या पार्वत्या:, हेमकुम्भस्तननिः- कनककलश रूप पयोधि, सृतानां- निर्गतानाम्, पयसां- जलानाम् क्षीराणाञ्च, रसज्ञ:-
स्वादज्ञ:, असौ- देवदारु:, वृषभध्वजेन- भगवता शिवेन, पुत्रीकृत:- स्वपुत्रत्वेन अङ्गीकृत: ।
अनुवाद:- सामने इस देवदारु वृक्ष को देख रहे हो न? इसे
शङ्कर जी ने पुत्र के समान माना है, जो कार्तिकेय की माता पार्वती के सोने के
घटरूपी स्तनों से निकले हुए दुधरूपी जल के स्वाद को जानने वाला है।
स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः ।
शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति । । २.४० । ।
सङ्केत:- स त्वं निवर्तस्व............................................................................................................ क्षिणोति ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम्
नाम्ना: ग्रन्थात् उद्धृतं वर्तते। अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास:
वर्तते। अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी
गौसेवाया: वर्णनं वर्तते।
अन्वयः – स: त्वं लज्जां विहाय निवर्तस्व भवान् गुरो: दर्शितशिष्यभक्तिः (अस्ति) । यत् रक्ष्यं
शस्त्रेण अशक्यरक्ष्यं तत् (नष्टम् अपि) शस्त्रभृतां यश: न क्षिणोति ।
संस्कृत व्याख्या:- स: - लोकप्रसिद्ध:, त्वं –
गत्यन्तररहितो भवान्, लज्जां – व्रीडाम्, विहाय – परित्यज्य, निवर्तस्व – पराङ्मुखो भूत्वा वसिष्ठाश्रमं
परावर्तस्व, भवान् – श्रीमान्, गुरो: - वसिष्ठस्य विषये, दर्शितशिष्यभक्तिः प्रदर्शितशिष्यश्रद्धा
अस्ति । यत् रक्ष्यं – रक्षणीयं वस्तु, शस्त्रेण – आयुधेन, अशक्यरक्ष्यं –
असाध्यत्राणम्, तत् – रक्षितुमशक्यं वस्तु, शस्त्रभृतां – अस्त्रधारिणाम्, यश: -
कीर्तिम्, न क्षिणोति – नैव ह्रासयति ।
अनुवाद: - इस प्रकार उपायरहित तुम लज्जा को छोड़कर जाओ । तुमने गुरुभक्ति दिखला दी । जो
रक्षा करने के योग्य वस्तु शस्त्र से नहीं बचाई जा सकती, वह नष्ट होती हुई भी
शस्त्रधारियों की कीर्ति को दूषित नहीं कर सकती।
स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद ।
दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षेः । । २.४५ । ।
सङ्केत:- स त्वं............................................................................................................... धेनुरियं महर्षेः ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम्
नाम्ना: ग्रन्थात् उद्धृतं वर्तते। अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास:
वर्तते। अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी
गौसेवाया: वर्णनं वर्तते।
अन्वय: - स त्वं मदीयेन देहेन शरीरवृत्तिं निर्वर्तयितुं प्रसीद । दिनावसानोत्सुकबालवत्सा महर्षेः इयं धेनु: विसृज्यताम्।
संस्कृत- व्याख्या:- स:- अङ्कागतसत्त्ववृति:, त्वं- भवान्,
मदीयेन- मामकीयेन, देहेन-शरीरेण, शरीरवृत्तिं- प्राणधारणम्, उदरपूरणं वा, निर्वर्तयितुं- सम्पादयितुं, प्रसीद- कृपा, दिनावसानोत्सुकबालवत्सा- सायमुत्कण्ठितबालशिशु:, महर्षेः- वसिष्ठस्य, इयं धेनु:-
नन्दिनी, विसृज्यतां- मुच्यताम् ।
अनुवाद- वह तू मेरे शरीर से अपने शरीर के जीवन जीवन को
सम्पादन करने के लिए प्रसन्न हो। सन्ध्या के समय उत्कण्ठित छोटे बछडे वाली महर्षि
की इस नन्दिनी गौ को छोड दो।
एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तं इदं वपुश्च ।
अल्पस्य हेतोर्बहु हातुं इच्छन्विचारमूढः प्रतिभासि मे त्वम् । । २.४७ । ।
सङ्केत:- एकातपत्रं............................................................................................................... मे त्वम् ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम्
नाम्ना: ग्रन्थात् उद्धृतं वर्तते। अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास: वर्तते।
अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी गौसेवाया:
वर्णनं वर्तते।
अन्वयः - एकातपत्रं जगतः प्रभुत्वं नवं वयः इदं कान्तं वपु: च इति एवं अल्पस्य हेतो: बहु हातुम् इच्छन् त्वं विचारमूढ: मे प्रतिभासि
।
व्याख्या: - एकातपत्रं – एकच्छत्रम् अप्रतिद्वन्द्वं वा, जगतः – भूमण्डलस्य, प्रभुत्वं – ऐश्वर्यम्, नवं – नवीनम्, वयः – अवस्थाम्, इदं – पुरतो
विभाव्यमानम्, कान्तं – मनोहरम्, वपु: - शरीरं च, अल्पस्य हेतो: - अत्यल्पेन कारणेन, बहु – विपुलम्, हातुम्- तयक्तुम्, इच्छन् – अभिलष्यन्, त्वं – भवान्, विचारमूढ: - विमर्शविकल:, मे
– मम, प्रतिभासि - प्रतीयसे ।
अनुवाद: - संसार का एकछत्र आधिपत्य, नया यौवन और इस सुंदर शरीर को थोड़े के
लिए अधिक छोड़ने की इच्छा करने वाले आप मुझे कर्तव्याकर्तव्य विचार में मूर्ख
मालूम पडते हो ।
भवानपीदं परवानवैति महान्हि यत्नस्तव देवदारौ ।
स्थातुं नियोक्तुर्न हि शक्यं अग्रे विनाश्य रक्ष्यं स्वयं अक्षतेन । । २.५६ । ।
सङ्केत:- भवानपीदं............................................................................................................... स्वयं अक्षतेन ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम्
नाम्ना: ग्रन्थात् उद्धृतं वर्तते। अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास:
वर्तते। अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी
गौसेवाया: वर्णनं वर्तते।
अन्वयः – परवान् भवान् अपि इदम् अवैति । हि तव देवदारौ
महान् यत्न: रक्ष्यं विनाश्य स्वयम् अक्षतेन नियोक्तु: अग्रे स्थातुं शक्यं न हि ।
व्याख्या: – परवान् –पराधीन:, भवानपि – श्रीमानपि, इदम् –
कर्तव्यगुरुत्वम्, अवैति – जानाति, हि – यत:, तव – भवत:, देवदारौ – देवदारुतरुरक्षणे,
महान् – भूयान्, यत्न: - पर्यवेक्षणप्रयासो विभाव्यते, रक्ष्यं – रक्षणीयं पालनीयं
वा वस्तु, विनाश्य – नाशयित्वा, स्वयम् – आत्मना, अक्षतेन – अव्रणेन, कुशलेन वा,
नियोक्तु: - नियोजकस्य, अग्रे – पुरत:, स्थातुं – सन्निधातुम्, शक्यं – साध्यम्, न
हि - नैव ।
अनुवाद: - पराधीन होते हुए आप भी यह जानते हैं, क्योंकि आपका देवदारू के विषय
में बहुत बड़ा प्रयत्न है । रक्षा करने के योग्य वस्तु को नष्ट करके स्वयं बिना
घायल हुए शरीर से मालिक के आगे खड़ा होना नौकर को उचित नहीं ।
No comments:
Post a Comment