संस्कृत साहित्यस्य लघुत्तरीयाणि प्रश्नोत्तराणि
(१) प्रश्न: कालिदासस्य कति ग्रन्थाः सन्ति ?
उत्तरम् कालिदासस्याष्टौ ग्रन्थाः सन्ति तद्यथा—
१. कुमारसम्भवमहाकाव्यम्, २. रघुवंश-महाकाव्यम्, ३. मेघदूतखण्डकाव्यम्,
४. ऋतुसंहारः ५. शृङ्गारतिलकम् त्रीणि नाटकानि, ६. अभिज्ञानशाकुन्तलम्
७. मालविकाग्निमित्रम्, ८. विक्रमोर्वशीयञ्च ।
(२) प्रश्नः – कालिदासस्योपमाविषये किमप्येकमुदाहरणं लिख ?
उत्तरम् – कालिदासस्योपमाविषये उदाहरणमेकमवलोकयन्तु सुधयः-
सञ्चारिणी दीपशिखेव रात्रि र्यं यं व्यतीयाय पतिवरा सा ।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ।।
(३) प्रश्नः – धीरोदात्तस्य लक्षणं किमस्ति ?
उत्तरम् – धीरोदात्तनायकस्य लक्षणमुक्तं साहित्यदर्पणे
अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः ।
स्थेयान्निगूढमानो धीरोदात्तो दृढव्रतः कथितः ।।
(४) प्रश्नः – नायकः कतिविधः भवति ?
उत्तरम् - नायकः चतुर्विधः भवति । यथोक्तं साहित्यदर्पणे
धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च |
धीरप्रशान्त इत्ययमुक्तः प्रथमश्चतुर्भेदः ॥
(५) प्रश्नः नाटकस्य कि लक्षणम् ?
उत्तरम्-नाटकस्य लक्षणमुक्तं साहित्यदर्पणे-
नाटकं ख्यातवृत्तं स्यात्पञ्चसन्धिसमन्वितम् |
(६) प्रश्नः कति रूपकाणि भवन्ति ?
उत्तरम्- दशरूपकाणि सन्ति | तदुक्तं साहित्यदर्पणे-
नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिमाः ।
ईहापृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश ॥
(७) प्रश्न अभिज्ञानशाकुन्तलस्य व्युत्पत्तिलेख्या ?
उत्तरम्- अभिज्ञायतेऽमेन यत्तद् अभिज्ञानम्, शकुन्तैर्लालिता शकुन्तला |
No comments:
Post a Comment