अभिज्ञानशाकुन्तलस्य अतिलघूत्तरीयाणि प्रश्नोत्तराणि
प्रश्नः - अभिज्ञानशाकुन्तलस्य रचयिता कः ?
उत्तरम् – अभिज्ञानशाकुन्तलस्य रचयिता महाकविः कालिदासः ।
प्रश्नः- पुरा कवीनां गणना प्रसङ्गे कनिष्ठिकाधिष्ठितः कः ?
उत्तरम् – पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितः कालिदासः ।
प्रश्नः – अद्यापि कथमनामिका सार्थवती बभूव ?
उत्तरम् – अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ।
प्रश्नः – कालिदासस्य का प्रसिद्धा ?
उत्तरम् – कालिदासस्य उपमा प्रसिद्धा ।
प्रश्न:- - अभिज्ञानशाकुन्तले कोऽङ्गी रसः ?
उत्तरम् – अभिज्ञानशाकुन्तले शृङ्गारोऽङ्गी रसः |
प्रश्न:- अभिज्ञानशाकुन्तले कः नायकः ?
उत्तरम् – अभिज्ञानशाकुन्तले दुष्यन्तः नायकः ।
प्रश्न: - दुष्यन्तः कीदृशः नायकः ?
उत्तरम् - दुष्यन्तः धीरोदात्तः नायकः ।
प्रश्नः – अभिज्ञानशाकुन्तलस्य नायिका का ?
उत्तरम्- अभिज्ञानशाकुन्तलस्य नायिका शकुन्तला।
प्रश्न: - शकुन्तला कीदृशी नायिका ?
उत्तरम् – शकुन्तला स्वीया नायिका अस्ति ।
प्रश्नः – कालिदासस्य किं सर्वस्वंम् ?
उत्तरम् – कालिदासस्य सर्वस्वमभिज्ञानशाकुन्तलम् ।
प्रश्नः – काव्येषु किं रम्यम् ?
उत्तरम् – काव्येषु नाटकं रम्यम् ।
प्रश्नः – नाटकेषु किं रम्यम् ?
उत्तरम् – नाटकेषु रम्यं शाकुन्तलम् ।
प्रश्न: – महाकवि कालिदासेनाभिज्ञानशाकुन्तलस्य कथानकं कुतः गृहीतम् ?
उत्तरम् – महाकविकालिदासेनाभिज्ञानशाकुन्तलस्य कथानकं महाभारतस्या पर्वणः शाकुन्तलोपाख्यानात् सङ्ग्रहीतम् |
प्रश्न:- - अभिज्ञानशाकुन्तलं रूपकस्य कः भेदः ?
उत्तरम् – अभिज्ञानशाकुन्तलं रूपकस्य नाटकभेदः ।
प्रश्न:- - अभिज्ञानशाकुन्तले कति अङ्काः सन्ति ?
उत्तरम् – अभिज्ञानशाकुन्तले सप्त अङ्काः सन्ति ।
प्रश्न: - स्रष्टुः आद्या सृष्टि: का ?
उत्तरम् - स्रष्टुः आद्या सृष्टि: जलरूपा ।
प्रश्न: – विधिहुतं हविः कः वहति ?
उत्तरम् – विधिहुतं हविः पावकः वहति ।
प्रश्नः –कया प्राणिनः प्राणवन्तः ?
उत्तरम् – वायुरूपया भगवतः मूर्त्या प्राणिनः प्राणवन्तः भवन्ति ।
प्रश्नः – का सर्वबीजप्रकृतिराहुः ?
उत्तरम् – पृथिवीरूपा भगवतः तनुः सर्वबीजप्रकृतिराहुः ।
प्रश्न: - अभिज्ञानशाकुन्तलस्य प्रथमे श्लोके किं छन्दः ?
उत्तरम् – अभिज्ञानशाकुन्तलस्य प्रथमे श्लोके स्रग्धराछन्दः विज्ञेयम् ।
प्रश्नः कस्य दिवसा: परिणामरमणीयाः ?
उत्तरम् – ग्रीष्मसमयस्य दिवसा परिणामरमणीयाः ।
प्रश्नः – काः शिरीषकुसुमानि अवतंसयन्ति ?
उत्तरम् – अवतंसयन्ति दयमानाः प्रमदाः शिरीषकुसुमानि ।
प्रश्न: - राजा दुष्यन्तः केन हृतः ?
उत्तरम् – एष राजा दुष्यन्तः सारङ्गेणातिरंहसा हृतः ।
प्रश्नः – सूतः राजानं दुष्यन्तं कमिव पश्यति ?
उत्तरम् - सूतः राजानं दुष्यन्त मृगानुसारिणं साक्षात् पिनाकिनमिव पश्यति |
प्रश्नः- कः वियति बहुतरं स्तोकमुख्य प्रयाति ?
उत्तरम् – सारङ्गो वियति बहुतरं स्तोकमुर्व्यां प्रयाति ।
प्रश्न:- कस्य शराः वज्रसारा: ?
उत्तरम् - दुष्यन्तस्य शराः वज्रसाराः ।
प्रश्नः – कस्याश्रमः अनुमालिनीतीरं दृश्यते ?
उत्तरम् – कुलपतेः कण्वस्याश्रमः अनुमालिनीतीरं दृश्यते ।
प्रश्न: - कुलपतिः किमर्थं सोमतीर्थं गतः ?
उत्तरम् – कुलपतिः कण्वः दुहितरं शकुन्तलामतिथिसत्काराय नियुज्य दैवमस्या: प्रतिकुलं शमयितुं सोमतीर्थं गतः ।
प्रश्न: - कथं प्रवेष्टव्यानि तपोवनानि नाम ?
उत्तरम् - विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम ।
प्रश्न: - केषां द्वाराणि सर्वत्र भवन्ति ?
उत्तरम् – भवितव्यतानां द्वाराणि सर्वत्र भवन्ति ।
प्रश्नः – कथं यौवनमङ्गेषु सन्नद्धम् ?
उत्तरम् – कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम् |
प्रश्नः – केषां कुत्रान्तः करणप्रवृत्तयः प्रमाणम् ?
उत्तरम् – सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः ।
प्रश्न: - शकुन्तलायाः कथं कण्वः पिता ?
उत्तरम् – शरीरसवर्द्धनादिभिस्तातकाश्यपोऽपि (कण्वः) अस्याः शकुन्तलायाः पिता |
प्रश्नः – देवै: मेनका कथं प्रेषिता ?
उत्तरम् – जातशङ्कै: देवैः नियमविघ्नकारिणी मेनका नामाप्सरा: प्रेषिता |
प्रश्न: - शमप्रधानेषु तपोधनेषु गूढं किमस्ति ?
उत्तरम् – शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः ।
प्रश्नः - नृपाणां किं ददति आरण्यकाः ?
उत्तरम् – तपः षड्भागमक्षय्यं ददत्यारण्यकाः हि नृपाणाम् ।
प्रश्नः – आपन्नाभयसत्रेषु दीक्षिताः खलु के ?
उत्तरम् – आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ।
प्रश्नः कः शशाङ्कं ग्लपयति ?
उत्तरम् - दिवसः शशाङ्कं ग्लपयति ।
प्रश्नः – केन विवाहेन बह्व्यो राजर्षिकन्यकाः परिणिताः ?
उत्तरम् - गान्धर्वेण विवाहेन बह्व्यो राजर्षिकन्यका: परिणिताः ।
प्रश्नः- कीदृशी विद्या अशोचनीया भवति ?
उत्तरम् - सुशिष्यपरिदत्ता विद्या अशोचनीया भवति ।
प्रश्न:- कैः गृहिणः पीड्यन्ते ?
उत्तरम् - नवैः तनयाविश्लेषदुःखैः गृहिणः पीड्यन्ते ।
प्रश्नः– 'वनौकषोऽपि सन्तो लौकिकज्ञा वयम्' कस्येयमुक्तिः ?
उत्तरम्– वनौकषोऽपि सन्तो लौकिकज्ञा वयमितीयमुक्तिः महर्षेः कण्वस्य ।
प्रश्नः – अर्थो हि कन्या परकीय एवेति कस्येयमुक्तिः ?
उत्तरम् – अर्थो हि कन्या परकीय एवे सूक्तिरियं कण्वस्य ।
प्रश्नः – रात्रिन्दिवं कः प्रयाति ?
उत्तरम् – रात्रिन्दिवं गन्धवहः प्रयाति ।
प्रश्नः – कैः तरवः नम्राः भवन्ति ?
उत्तरम् - भवन्ति नम्रास्तरवः फलागमैः ।
प्रश्नः – धर्मांशौ तपति किं न आविर्भविष्यति ?
उत्तरम् – धर्मांशौ तपति तमः न आविर्भविष्यति ।
प्रश्न: - केषु अमी विकाराः मूर्च्छन्ति ?
उत्तरम्–मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु ।
प्रश्नः – क इव न च खलु परिभोक्तुं नैव शक्नोमि हातुम् ?
उत्तरम् – भ्रमर इव विभाते कुन्दमन्तस्तुरं न च खलु परिभोक्तुं नैव शक्नोमि हातुम् ।
प्रश्न: - परभृताः कमन्यैर्द्विजैः पोषयन्ति ?
उत्तरम् – परभृताः स्वमपत्यजातमन्यैर्द्विजैः पोषयन्ति ।
प्रश्न: - परीक्ष्य किं कर्तव्यम् ?
उत्तरम् - परीक्ष्य कर्तव्यं विशेषात् सङ्गतं रहः ।
प्रश्न: अज्ञातहृदयेषु किं वैरीभवति ?
उत्तरम् - अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ।
प्रश्न: - पतिकुले कस्य दास्यमपि क्षमम् ?
उत्तरम् – पतिकुले स्त्रीजनस्य दास्यमपि क्षमम् ।
प्रश्नः – वशिनां कीदृशी वृत्तिः ?
उत्तरम् – वशिनां परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः
प्रश्न: - मातलिः कस्य सारथिः ?
उत्तरम् - मातलिः इन्द्रस्य सारथिः ।
प्रश्न: - कः सपप्तनीकः तपस्यति ?
उत्तरम् – सुरासुरगुरु: मारीचः सपत्नीकस्तपस्यति ।
प्रश्नः – का नामौषधिः सर्पो भूत्वा दशति ? "
उत्तरम् - अपराजिता नामौषधिः सर्पो भूत्वा दशति ।
प्रश्नः – अपराजिता नामावधिः कदा केन दुत्ता?
उत्तरम् – अपराजितानामौषधिः सर्वदमनस्य जातकर्मसमये भगवता मारीचेन दत्ता |
प्रश्न: - शकुन्तलाया: दुष्यन्तेन पुनर्मेलनं कस्याश्रमेऽभवत् ?
उत्तरम् – शकुन्तलायाः दुष्यन्तेन पुनर्मेलनं मारीचस्याश्रमेऽभवत् ।
प्रश्न:- का दीर्घं विरहव्रतं विभर्ति ?
उत्तरम् - शकुन्तला दीर्घं विरहव्रतं विभर्ति |
प्रश्नः – पार्थिवः कस्मै प्रवर्तताम् ?
उत्तरम् – पार्थिवः प्रकृतिहिताय प्रवर्तताम् ।
No comments:
Post a Comment