लघ्वतिलघूत्तरीयाणि प्रश्नोत्तराणि
००१. प्रश्न:- अलङ्कारशास्त्रस्य का उपयोगिता ?
उत्तरम् - भाषायां व्युत्पतिविवर्धनाय यथा व्याकरणशास्त्रमपेक्ष्यते तथैव काव्ये नैपुण्यायालङ्कारशास्त्रस्यापि महती उपयोगिता वर्तते ।
०२. प्रश्न:- भोजराजमतानुसारेण काव्यशास्त्रस्य प्रमुखं प्रयोजनं किम् ?
उत्तरम् काव्यशास्त्रस्य प्रमुखं प्रयोजनं भोजराजस्तावत् कान्तासम्मित तयोपदेश युजे इति मन्यते ।
०३. प्रश्न:- काव्यशास्त्रे केषां तत्त्वानां निरूपणमस्ति?
उत्तरम् काव्यस्य जीवनाधायकरसगुणाऽलङ्कारादीनां सर्वेषां तत्त्वानां विशदं निरूपणमलङ्कारशास्त्रे एव भवति ।
०४. प्रश्न:- साहित्यशास्त्रस्य का व्युत्पत्तिः ?
उत्तरम् - सहितं रसेन युक्तं विशिष्टं साहित्यम् तस्य भावः साहित्यम् ।
०५. प्रश्न: अलङ्कारशास्त्रे के के सम्प्रदायाः प्रचलिताः सन्ति ?
उत्तरम् अलङ्कारशास्त्रे तावत् षट् सम्प्रदायाः प्रचलिताः; ते हि १. रससम्प्रदायः, २. अलङ्कारसम्प्रदायः, ३. रीतिसम्प्रदायः, ४. ध्वनिसम्प्रदायः, ५. वक्रोक्तिसम्प्रदायः, ६. औचित्यसम्प्रदायश्चेति । सम्प्रदायप्रवर्तकास्तु क्रमशः १. भरतः, २. भामहः, ३. वामनः, ४.आन्दन्दवर्धनः, ५ कुन्तकः, ६. क्षेमेन्द्रश्च
६. प्रश्न:- ऋग्वेदे रसशब्देन कस्योल्लेखं कृतं दृश्यते ?
उत्तरम्- 'दधानः कलशे रसम्' इति सोमरसस्यार्थे। आनन्दार्थेऽपि- 'रसो वै स:’
७. प्रश्न:- अलङ्कारशास्त्रे सम्प्रत्युपलब्धः भरतस्य रससिद्धान्त: किमस्ति?
उत्तरम्- 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पतिः' इति रसस्वरूपनिर्णायकत्वेन प्रसिद्धं भरतमुनिप्रतिपादितसिद्धान्तम् ।
८. प्रश्न:- उत्पत्तिवादः कस्य मतमस्ति ?
उत्तरम्- भट्टलोल्लटस्य।
९. प्रश्न:- अनुमितिवादः कस्य मतमस्ति ?
उत्तरम् - श्रीशङ्कुकस्य ।
१०. प्रश्न:- रसविषये भुक्तिवादः कस्य मतम् ?
उत्तरम्- भुक्तिवाद: रसविषये भट्टनायकस्य मतमस्ति ।
११. प्रश्न:- अभिव्यक्तिवादस्याविष्कर्त्ता कोऽस्ति ?
उत्तरम् - रसविषयकभरतसूत्रस्य व्याख्यानविषयेऽभिव्यक्तिवादस्याविष्कर्त्ताऽऽचार्य: अभिनवगुप्तः वर्त्तते ।
१२. प्रश्न:- वैदिकसाहित्ये केषामलङ्काराणामुल्लेखो दृश्यते?
उत्तरम् - वैदिकसाहित्ये उपमारूपकाद्यलङ्काराणामुल्लेखो दृश्यते।
१३. प्रश्न:- अलङ्काराणां विधिवन्निरूपणमलङ्कारशास्त्रे सर्वप्रथमं केन कृतम् ?
उत्तरम् - अलङ्कारशास्त्रेऽलङ्काराणां सर्वप्रथमं विधिवन्निरूपणमाचार्य भरतमुनिना स्वकीये नाट्यशास्त्रे कृतं दृश्यते ।
१४. प्रश्न:- नाट्यशास्त्रे भरतमुनिनाऽलङ्काराणां कति भेदाः दर्शिता ?
उत्तरम्- अलङ्काराणां निरूपणप्रसङ्गे भरतमुनिना उक्तं यत् –
उपमा रूपकं चैव दीपकं यमकं तथा ।
अलङ्कारास्तु विज्ञेयाश्चत्वारो नाटकाश्रयाः ।।
१५. प्रश्न:- रीतिसम्प्रदायस्य प्रस्थापनपरमाचार्यः कः ?
उत्तरम् - रीतिसम्प्रदायस्य प्रस्थापनपरमाचार्यः आचार्यो वामनः अस्ति।
१६. प्रश्न:- वामनाचार्यस्य मते काव्यस्य किं स्वरूपम् ?
उत्तरम्- 'रीतिरात्मा काव्यस्य' ।
१७. प्रश्न:- वामनमते कति रीतयः के च ते?
उत्तरम् – आचार्यवामनमते वैदर्भी, गौडी, पाञ्चाली, लाटीति चतु:सङ्खयका रीतय: वर्त्तन्ते |
१८. प्रश्न:- वक्रोक्तिसम्प्रदायस्य प्रतिपादक: आचार्यः कः?
उत्तरम्- ऐतिहासिक्या दृष्ट्या सर्वप्रथमं वक्रोक्ते: कल्पनां भामहः अकरोत्, इयमेव लोचनकारानुसारेण काव्यस्य जीवितत्वेनोक्ता | वामनानुसारं वक्रोक्तिः एकोऽर्थाऽलङ्कारोऽस्ति । परन्तु 'वक्रोक्तिरेव काव्यजीवितम्' इत्यस्योद्घोषकः आचार्यकुन्तकः आसीत्। अनेनाचार्येण वक्रोक्तिप्रतिपादनार्थं 'वक्रोक्तिजीवितम्' इत्येतं ग्रन्थं रचितवान्।
१९. प्रश्न:- कुन्तकमतेन वक्रोक्तेः किं स्वरूपम् ?
उत्तरम्- वक्रोक्तिरेव वैदग्ध्यभङ्गीभणितिरुच्यते ।
२०. प्रश्न: वक्रोक्तिशब्दस्य कोऽर्थः ?
उत्तरम्- सर्वसाधारणजनकथनभिन्नाऽलौकिकचमत्कारयुक्ता उक्तिः वक्रोक्तिः ।
२१. प्रश्न:- ध्वनिसम्प्रदायस्य किं स्वरूपं तस्य प्रतिपादकश्च कः ?
उत्तरम्- ध्वनिसम्प्रदायं प्रवर्त्तमानः आचार्यानन्दवर्धनेन ध्वनेरावश्यकतामनुभूय ध्वनिसम्प्रदायं प्रवर्त्तितः ।
२२. प्रश्न:- औचित्यसम्प्रदायस्य संस्थापकाचार्यः कः ?
उत्तरम्- औचित्यसम्प्रदायस्य संस्थापकाचार्यः आचार्यक्षेमेन्द्रः|
२३. प्रश्न:- संस्कृतकाव्यशास्त्रस्य प्राचीनतमं नाम किम् ?
उत्तरम् - संस्कृतकाव्यशास्त्रस्य प्राचीनतमं नाम काव्यालङ्कारोऽस्ति |
२४. प्रश्न:- वक्रोक्तिसम्प्रदायप्रवर्त्तकेनाचार्येण कुन्तकेन किमभिहितम्?
उत्तरम्- 'वक्रोक्तिरेव काव्यजीवितम् ।
२५. प्रश्न:- काव्यशास्त्रे प्रतिपाद्यमानः प्रथमो विषयः कः ?
उत्तरम्- काव्यशास्त्रे प्रतिपाद्यमानः प्रथमो विषयः काव्यप्रयोजनमस्ति |
२६. प्रश्न:- कविराजविश्वनाथमते काव्यस्य किं स्वरूपम् ?
उत्तरम्- 'वाक्यं रसात्मकं काव्यम्’ ।
२७. प्रश्न:- पण्डितराजजगन्नाथमते काव्यस्य किं स्वरूपम् ?
उत्तरम् - 'रमणीयार्थप्रतिपादकः शब्दः काव्यम् ।
२८. प्रश्न:- काव्यप्रकाशकर्तुराचार्यमम्मटमते काव्यस्य किं लक्षणम् ?
उत्तरम्- 'तददोषौ शब्दार्थी सगुणावनलङ्कृती पुन क्वाऽपि ।
२९. प्रश्न:- आचार्यदण्डिना काव्यस्य किं स्वरुपं प्रतिपादितम् ?
उत्तरम्- 'इष्टार्थव्यवच्छिन्ना पदावलिः काव्यम्' ।
३०. प्रश्न:- भोजराजस्य लक्षणग्रन्थः कः ?
उत्तरम्- सरस्वतीकण्ठाभरणम्।
३१. प्रश्न:- भोजराजमते काव्यस्य किं स्वरूपम् ?
उत्तरम्- निर्दोष गुणवत्काव्यमलङ्कारैरलङ्कृतम् ।
रसात्मकं कविः कुर्वन् कीर्ति प्रीतिं च विन्दति ।।
३२. प्रश्न:- जयदेवस्य लक्षणग्रन्थः कः ?
उत्तरम्- चन्द्रालोकः ।
३३. प्रश्न:- जयदेवस्य मते काव्यस्य किं स्वरूपम् ?
उत्तरम् - निर्दोषा लक्षणवती सरीतिर्गुणभूषिता ।
सालङ्काररसानेकवृत्तिर्वाक्काव्यनामभाक् ।।
३४. प्रश्न:- शब्दार्थौ सहितौ काव्यमिति काव्यलक्षणं कस्य कस्य मतेऽस्ति ?
उत्तरम्- भामहः, उद्भटः, रुद्रटादयः ।
३५. प्रश्न:- कुन्तकस्य कः लक्षणग्रन्थः ?
उत्तरम् - वक्रोक्तिजीवितम्।
३६. प्रश्न:- काव्यस्य किं स्वरूपं कुन्तकमते?
उत्तरम् - शब्दार्थों सहितौ वक्रकविव्यापारशालिनि ।
बन्धे व्यवस्थितौ काव्ये तद्विदाह्लादकारिणी ।।
३७. प्रश्न:- क्षेमेन्द्रमते काव्यस्य किं स्वरूपम् ?
उत्तरम्- औचित्यं रससिद्धस्य स्थिरं काव्यस्य जीवितम् |
३८. प्रश्न:- ध्वन्यालोककारमते काव्यस्यात्मा कः ?
उत्तरम्- काव्यस्यात्मा ध्वनिः ।
३९. प्रश्न:- काव्यादर्शे काव्यस्य किं स्वरूपमुक्तम् ?
उत्तरम्- तैः शरीरञ्च काव्यानामलङ्काराश्च दर्शिताः।
शरीरं तावदिष्टार्थं व्यवच्छिन्ना पदावली ॥
४०. प्रश्न:- अलङ्कारशेखरः कस्य रचना ?
उत्तरम् - शौद्धोदनेः ।
४१. प्रश्न:- शौद्धोदनिमते काव्यस्य किं स्वरूपम् ?
उत्तरम् - काव्यं रसादिमद्वाक्यं श्रुतं सुखविशेषकृत् ।
४२. प्रश्न:- वाग्भट्टकृतकाव्यानुशासने काव्यस्य किं स्वरूपम् ?
उत्तरम्- साधुशब्दार्थ गुणालङ्कारभूषितम् ।
स्फुटरीतिरसोपेतं काव्यं कुर्वीत कीर्तये ॥
४३. प्रश्न:- वामनमते काव्यस्य किं स्वरूपम् ?
उत्तरम्- काव्यशब्दो गुणालङ्कारसंस्कृतयोः शब्दार्थयोर्वर्तते ।
४४. प्रश्न:- भामहमते काव्यस्य किं लक्षणम्?
उत्तरम् - शब्दार्थों सहितौ काव्यम्
४५. प्रश्न:- स्थायिभावानां किं परिचयम् ?
उत्तरम् - विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा ।
रसतामेति रत्यादिः स्थायिभावाः प्रकीर्तिताः ।।
विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिणः ।
व्यक्तः स तैर्विभावाद्यैः स्थायिभावो रसः स्मृतः ।।
४६. प्रश्न:- स्थायिभावानां सङ्ख्यां स्पष्टयत?
उत्तरम् - रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्साविस्मयश्चेति निर्वेदो नवमस्तथा ॥
४७. प्रश्न:- नाट्यशास्त्रप्रणेतुः भरतमुनेः मतेन रसः कतिविधः ?
उत्तरम् - शृङ्गार- हास्य-करुण-रौद्र वीर- भयानकाः
वीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ।।
४८. प्रश्न:- मम्मटमते अतिरिक्तोऽन्यः स्वीकृत रसः कः ?
उत्तरम् - निर्वेदः स्थायिभावोऽस्ति शान्तोऽपि नवमो रसः ।
४९. प्रश्न:- भामहमते अलङ्कारस्य किं स्वरूपम् ?
उत्तरम् - न कान्तमपि निर्भूषं विभाति वनिताननम् ।
५०. प्रश्न:- चन्द्रालोके अलङ्कारस्य किं स्वरूपमुक्तम् ?
उत्तरम् - अलङ्करोति यः काव्यं शब्दार्थावनलङ्कृती ।
असौ न मन्यते कस्मादनुष्णमलङ्कृती ।।
५१. प्रश्न:- नाट्यशास्त्रे केषामलङ्काराणामुल्लेखो दृश्यते?
उत्तरम्- उपमा रूपकं चैव दीपकं यमकं तथा ।
अलङ्कारास्तु विज्ञेयाश्चत्वारो नाटकाश्रयः ।।
५२. प्रश्न:- साहित्यदर्पणकर्तुर्विश्वनाथमते दशमो रसः कः ?
उत्तरम्- वात्सल्यरसः ।
५३. प्रश्न:- वामनाचार्यमते रीतेरर्थः कः ?
उत्तरम् - विशिष्टपदरचना रीतिः
५४. प्रश्न:- अलङ्कारशास्त्रस्येतिहासं कतिशषु भागेषु विभक्तः ?
उत्तरम्- चतुर्षु भागेषु विभक्तः ।
५५. प्रश्न:- 'माघे सन्ति त्रयो गुणाः' सूक्तिः कस्योपरि लिखिता
उत्तरम् - शिशुपालवधस्य प्रणेतुः माघस्योपरि ।
५६. प्रश्न:- अलङ्कारशास्त्रस्य प्रारम्भिक : कालः कः?
उत्तरम् - वैदिककालादारभ्य भामहपूर्वकालः ।
५७. प्रश्न:- अलङ्कारशास्त्रस्य रचनाकालः कः ?
उत्तरम्- आचार्यभामहादारभ्यानन्दवर्धनाचार्यपूर्वकालः ।
५८. प्रश्न:- अलङ्कारशास्त्रस्य निर्णयात्मकः कालः कः ?
उत्तरम्- आनन्दवर्धनाचार्यादारभ्य मम्मटान्तकालः ।
५९. प्रश्न:- अलङ्कारशास्त्रस्य व्याख्यात्मकः कालः कः ?
उत्तरम् - आचार्यमम्मटादारभ्य विश्वेश्वरपाण्डेयपर्यन्तम् ।
६०. प्रश्न:- अलङ्कारशास्त्रस्य प्रवर्त्तकः कः प्रमुखः आचार्यः ?
उत्तरम्- प्राचीनतमाचार्येषु प्रमुखः नाट्यशास्त्रस्य प्रणेता भरतमुनिः ।
६१. प्रश्न:- अलङ्कारशास्त्रस्य रचनाकालीना: प्रमुखा आचार्या के सन्ति ?
उत्तरम्- भामहः, दण्डी, उद्भटः, रुद्रटश्च ।
६२. प्रश्न:- अलङ्कारशास्त्रस्य निर्णयात्मककालीनः प्रमुखः आचार्यः ?
उत्तरम्- काव्यप्रकाशकार: आचार्यमम्मटः ।
६३. प्रश्न:- अलङ्कारशास्त्रस्य व्याख्यात्मककालीनाः प्रमुखा आचार्या: के सन्ति ?
उत्तरम् - विश्वनाथ-जयदेव - अप्पयदीक्षित जगन्नाथ-विश्वेश्वरपाण्डेयादया।
६४. प्रश्न:- काव्यप्रकाशकर्तुराचार्यमम्मटः कस्य पुत्र ?
उत्तरम् - आचार्यजैयटस्य ।
६५. प्रश्न:- मम्मटस्य जन्मस्थान कुत्र आसीत् ?
उत्तरम्- काश्मीरः ।
६६. प्रश्न:- शिशुपालवधमहाकाव्यस्य प्रणेता कः?
उत्तरम् - महाकविमाघः|
६७ प्रश्न:- नैषधीयचरितस्य प्रणेता कः ?
उत्तरम्- महाकविश्रीहर्षः ।
६८. प्रश्न:- नैषधीयचरितप्रणेतुः श्रीहर्षस्य पिता कः ?
उत्तरम्- श्रीहीरः ।
६९. प्रश्न:- किरातार्जुनीयमहाकाव्यस्य प्रणेता कः ?
उत्तरम्- महाकविभारविः ।
७०. प्रश्न:- अलङ्कृतशैल्यां गद्यकाव्यस्य प्रथमो लेखकः कः ?
उत्तरम्- वासवदत्ताप्रणेता सुबन्धुः ।
७१. प्रश्न:- सर्वासां भाषाणां जननी का?
उत्तरम्- सर्वासां भाषाणां जननी संस्कृतभाषा ।
७२. प्रश्न:- हर्षचरितस्य लेखकः कः ?
उत्तरम्- महाकविबाणभट्टः ।
७३. प्रश्न:- महाकविबाणभट्टस्य गद्यकाव्यात्मकः प्रमुखः ग्रन्थः कः ?
उत्तरम्- कादम्बरी।
७४. प्रश्न:- दण्डिनः कति कृतयः ?
उत्तरम्- काव्यादर्शम्, दशकुमारचरितम्, अवन्तिसुन्दरीकथा चेति त्रयः कृतयः ।
७५. प्रश्न:- मुद्राराक्षसस्य प्रणेता कः ?
उत्तरम् - विशाखदत्तः ।
७६. प्रश्न:- खण्डकाव्यमेघदूतस्य प्रणेता कः ?
उत्तरम्- महाकविकालिदासः ।
७७. प्रश्न:- प्रसन्नराघवस्य रचयिता कः ?
उत्तरम् - श्रीजयदेवः ।
७८. प्रश्न:- बालरामायणस्य रचयिता कः ?
उत्तरम् - श्रीराजशेखरः।
७९. प्रश्न:- वेणीसंहारनाटकस्य प्रणेता कः ?
उत्तरम्- भट्टनारायणः ।
८०. प्रश्न:- महाकविशूद्रकस्य कः नाटक ?
उत्तरम्- मृच्छकटिकम् |
८१. प्रश्न:- ध्वन्यालोकग्रन्थस्य प्रणेता कः ?
उत्तरम् - आचार्यानन्दवर्धनः ।
८२. प्रश्न:- दशरूपकस्य प्रणेता कः ?
उत्तरम्- आचार्यधनञ्जयः ।
८३. प्रश्न:- व्यक्तिविवेकस्य प्रणेता कः ?
उत्तरम्- महिमभट्टः ।'
८४. प्रश्न:- काव्यप्रकाशस्य प्रणेता कः ?
उत्तरम्- आचार्यमम्मटः।
८५. प्रश्न:- हेमचन्द्रस्य काव्यग्रन्थः कः ?
उत्तरम्- काव्यानुशासनम् ।
८६. प्रश्न:- शारदातनयस्य ग्रन्थस्य किं नाम ?
उत्तरम्- भावप्रकाशनम् ।
८७. प्रश्न: अप्पयदीक्षितस्य कः कः ग्रन्थः वर्तते ?
उत्तरम्- अप्पयदीक्षितस्य त्रयो ग्रन्थाः सन्ति कुवलयानन्दः, चित्रमीमांसा वृत्तिवार्तिकश्चेति |
८८. प्रश्न:- रसगङ्गाधरस्य प्रणेता कः ?
उत्तरम्- पण्डितराजजगन्नाथः |
८९. प्रश्न:- साहित्यदर्पणस्य प्रणेता कः ?
उत्तरम्- कविराजविश्वनाथः |
९०. प्रश्न: औचित्यविचारचर्चानाम्नः ग्रन्थस्य प्रणेता कः?
उत्तरम्- क्षेमेन्द्रः ।
९१. प्रश्न:- काव्यस्यात्मा ध्वनिरिति कस्याचार्यस्य सिद्धान्तः?
उत्तरम्- आनन्दवर्धनाचार्यस्य ।
९२. प्रश्न:- चन्द्रालोकस्य रचयिता कः ?
उत्तरम्- आचार्यजयदेवः ।
९३. प्रश्न:- मम्मटमतानुसारेण उत्तमकाव्यस्य किं स्वरूपम् ?
उत्तरम् - इदमुत्तममतिशायिनि व्यङ्ग्ये वाच्याद् ध्वनिर्बुधैः कथितः |
९४. प्रश्न:- मम्मटमते मध्यमकाव्यस्य किं स्वरूपम् ?
उत्तरम् - अतादृशि वाच्यादनतिशायिनि व्यङ्ग्ये सति मध्यमं काव्यमुच्यते।
९५. प्रश्न:- साहित्यदर्पणमते वाक्यस्य किं स्वरूपम् ?
उत्तरम्- वाक्यं स्याद्योग्यताकाङ्क्षाऽऽसत्तियुक्तः पदोच्चयः ।
९६. प्रश्न:- लक्षणायाः कति भेदाः ?
उत्तरम्- लक्षणायाः षड् भेदाः ।
९७ प्रश्न:- महाकाव्यस्य किं स्वरूपम् ?
उत्तरम्- सगैरवान्तरार्थवर्णनैरुपलक्षितो बन्धः रसवत्पद्यकदम्बविन्यासो महाकाव्यम्।
९८. प्रश्न:- खण्डकाव्यस्य किं स्वरूपम् ?
उत्तरम्- खण्डकाव्यं भवेत् काव्यस्यैकदेशानुसारि च |
९९. प्रश्न:- विश्वनाथमते गद्यकाव्यस्य किं स्वरूपम् ?
उत्तरम्- वृत्तस्य गन्धेन रहितं श्रव्यकाव्यं गद्यम् |
१००. प्रश्न:- कथायाः किं स्वरूपम् ?
उत्तरम्- कथा सरसवस्तुनिबन्धनं |
१०१. प्रश्न:- चम्पूकाव्यस्य किं स्वरूपम् ?
उत्तरम्- गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते ।
१०२. प्रश्न:- दोषस्य किं स्वरूपम् ?
उत्तरम्- रसापकर्षका दोषाः ।
१०३. प्रश्न:- मुख्यार्थहतिदोषाः कति ?
उत्तरम्- मुख्यार्थहतिदोषाः पञ्चप्रकारकाः भवन्ति - पदे, पदांशे, वाक्ये, अर्थे, रसे चेति । उक्तञ्च-
पदे पदांशे वाक्यर्थे सम्भवन्ति रसेऽपि यत् ।
१०४. प्रश्न:- पददोषाः कति के च ते?
उत्तरम्- पददोषाः षोडशसङ्ख्याकाः भवन्ति; ते च दुःश्रवत्वम्, व्रीड़ाश्लीलता, जुगुप्साश्लीलता, अमङ्गलाश्लीलता, अनुचितार्थता, अप्रयुक्तता, ग्राम्यता, अप्रतीतता, सन्दिग्धता, नेयार्थता, निहतार्थता, अवाचकत्वम्, क्लिष्टत्वम्, विरुद्धमतिकारिता, अविमृष्टविधेयांशता, निरर्थकता चेति ।
१०५. प्रश्न:- वक्रोक्तिः कतिविधा ?
उत्तरम् - वक्रोक्तिः षड्विधा- वर्णविन्यासवक्रता, पदपूर्वार्द्धवक्रता, प्रत्ययाश्रितवक्रता, वाक्यवक्रता, प्रकरणवक्रता, प्रबन्धवक्रता चेति ।
९०६. प्रश्न:- अर्थदोषाः कति के च ते?
उत्तरम्- अर्थदोषाः त्रयोविंशतिसङ्ख्याकाः भवन्ति; तथाहि-
अपुष्टदुष्क्रमग्राम्यव्याहताश्लीलकष्टता|
अनवीकृतनिर्हेतुप्रकाशितविरुद्धता ।
सन्दिग्धपुनरुक्तत्वे ख्यातिविद्याविरुद्धते ।
साकांक्षता सहचरभिन्नताऽस्थानयुक्तता ।
अविशेषे विशेषश्चानियमे नियमस्तथा ।
तयोर्विपर्ययौ विध्यनुवादायुक्तते तथा ।।
निर्मुक्तपुनरुक्तत्वमर्थदोषाः प्रकीर्तिताः ।।
१०७. प्रश्न:- गुणीभूतव्यङ्ग्यस्य कति भेदाः ?
उत्तरम्- गुणीभूतव्यङ्ग्यस्याष्टौ भेदाः भवन्ति; ते हि अगूढम्, अपरस्याङ्ग, वाच्यसिद्ध्यङ्गम्, अस्फुटम्, सन्दिग्धप्राधान्यम्, तुल्यप्राधान्यम्, काक्वाक्षिप्तम्, असुन्दरञ्चेति।
१०८. प्रश्न:- गुणाः के ?
उत्तरम्- ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः ।
उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥
१०९. प्रश्न:- श्लेषालङ्कारस्य किं स्वरूपम् ?
उत्तरम्- श्लिष्टैः पदैरनेकार्थाऽभिधाने श्लेष इष्यते।
११०. प्रश्न:- श्लेषस्य कति भेदा:?
उत्तरम्- श्लेषस्य अष्टौ भेदाः ।
१११. प्रश्न:- कव्यमीमांसा कस्याचार्यस्य ग्रन्थः ?
उत्तरम् काव्यमीमांसाऽऽचार्यराजशेखरस्य ग्रन्थः ।
११२. प्रश्न:- काव्यमीमांसा कीदृशो ग्रन्थः ?
उत्तरम्- काव्यमीमांसाऽऽचार्यत्वसाधको ग्रन्थः ।
११३. प्रश्न:- गद्यसाहित्यस्योपजीव्यः कः ?
उत्तरम्- गद्यसाहित्यस्योपजीव्यः कृष्णयजुर्वेदस्य तैत्तिरीयसंहिता वर्तते ।
११४. प्रश्न:- महाकविकालिदासस्य कति रचनाः सन्ति ?
उत्तरम्- काव्यचतुष्टयं, नाटकत्रयं च कालिदासेन रचितम् ।
११५. प्रश्न:- कुमारसम्भवे कति सर्गाः सन्ति ?
उत्तरम्- अष्टादशसर्गाः।
११६. प्रश्न:- रघुवंशः कति सर्गात्मकः ?
उत्तरम्- एकोनविंशसर्गात्मकः ।
११७. प्रश्न: कालिदासस्य प्रियः रसः कः ?
उत्तरम्- शृङ्गारः ।
११८. प्रश्न:- कालिदासस्य प्रियः अलङ्कारः कः ?
उत्तरम्- उपमा ।
११९. प्रश्न:- बुद्धचरितस्य प्रणेता कः ?
उत्तरम्- अश्वघोषः।
१२०. प्रश्न:- शारिपुत्रप्रकरणस्य प्रणेता कः ?
उत्तरम्- अश्वघोषः।
१२१. प्रश्न:- बौद्धदार्शिनकः कवि कः ?
उत्तरम् - अश्वघोषः।
१२२. प्रश्न:- करुणरसप्रधाननाटकः कः ?
उत्तरम्- उत्तररामचरितम् ।
१२३. प्रश्न:- उत्तररामचरितस्य प्रणेता कः ?
उत्तरम्- भवभूतिः ।
१२४. प्रश्न:- मालतीमाधवस्य रचयिता कः ?
उत्तरम्- भवभूतिः ।
१२५. प्रश्न:- महावीरचरितस्य प्रणेता कः ?
उत्तरम्- भवभूतिः ।
१२६. प्रश्न: कारुण्यस्य आचार्यः कः ?
उत्तरम्- भवभूतिः ।
१२७. प्रश्न:- वासवदत्तायाः प्रणेता कः ?
उत्तरम्- सुबन्धुः ।
१२८. प्रश्न:- दशकुमारचरितं कस्य रचनाऽस्ति |
उत्तरम्- महाकविदण्डी।
१२९. प्रश्न:- दण्डिप्रणीत: लक्षणग्रन्थः कः ?
उत्तरम्- काव्यादर्शः ।
१३०. प्रश्न:- संस्कृतसाहित्यस्य आद्यः कविः कः ?
उत्तरम्- महर्षिवाल्मीकिः ।
No comments:
Post a Comment