Sanskrit shlok Arth

Monday, June 14, 2021

महाकवि: भारवि:

 महाकवि: भारवि:

महाकवे: भारवे: 'अर्थ गौरवं’ प्रकाशयत ।

भारवि: अलंकृत काव्यशैल्या: प्रवर्तकः खलु | परं तस्य मनो न माघ इव शब्दार्थयो: गौरवे, न हर्ष इव प्रौढ़ोक्त्यां, पदलालित्ये, परिरम्भ कीडायाम् रमते । किरातार्जुनीये यत्र तत्र एषां समावेशो दृश्यते परं गौणरूपेण एतदेव कारणं यत्प्राचीनै विचक्षणै: ‘भारवि अर्थ गौरवम्’ इति उद्घोषणा कृता ।

अल्पेषु एव शब्देषु विपुलार्थ - सन्निवेष अर्थ गौरवं नाम | महाकवेः वस्तु परीक्षण दृष्टि र्विलक्षणा | अति पटु: हि महाकविः हृदयमर्म उद्घाटयते । युधिष्ठिरेण कृता भीमस्य भाषणप्रशंसा वस्तुतः भारवे: एव कवितायाः निकषग्रावा, मन्ये कवयः यं भावं चतुर्भिः पञ्चभिः वा श्लोकै: प्रकृटीकृतवन्तः तं भारवि एकेन श्लोक नैव प्रकाशत् यथा- 

सत्यानृता च पुरुषा प्रियवादिनी च

हिंसा दयालुरपि चार्थपरावदान्या ।

नित्यव्यया प्रचुर वित्त रत्नधना च,

वाराङ्गनेव नानीतिरनेक रूपा ||’

 लौकिकव्यवहारस्य विवेकोऽपि अस्य आसीत । एतादृश्य: सरसा: सूक्तय: कस्य सहृदयस्य चित्तं प्रसादयितुं न प्रभवन्ति । भारवे: मेधाया: दीप्ति: सर्वत्र एव अर्थगौरव प्रकाशिनी । केवलं एकमेव अक्षरम् अवलम्ब्य भारवि: श्लोकं निर्ममे |

 किरातार्जुनीयस्य आद्यास्त्रय: सर्गा: पाषाणत्रयम्’ इत्यभिधीयन्ते । मल्लिनाथेन भारवि: नारिकेल-फलेन उपमीयते । अस्य वंशस्थकृतं सहृदयेभ्यो अत्यधिकं रोचते ।

No comments:

Post a Comment

संस्कृत श्लोक

धनतेरस की शुभकामनाएं

  ॐ नमो भगवते महासुदर्शनाय वासुदेवाय धन्वंतराये:। अमृतकलश हस्ताय सर्व भयविनाशाय सर्व रोगनिवारणाय।। आप सभी को धनतेरस पर्व की हार्दिक शुभकामना...